Wikipedia:Babel | ||
---|---|---|
| ||
Search user languages |
Hemant (Devanāgarī:हेमन्त) mainly edits Hindi and Sanskrit wikipedias, but uses and appreciates English wikipedia also.
He can be comparatively easily contacted through Sanskrit Wikipedia.
प्रेक्ष्य जिज्ञासितान् लोकान्, अविद्यात्रासिताँस्तथा।
काँश्चन तत्र अज्ञान् नितरां, काँश्चन च स्वल्पविद्यकान् ॥१॥
धनाभावे ज्ञानतृषितान्, सधनानपि साधनाद्विना।
दृष्ट्वा लोकजनान् भ्रान्तान्, विद्यानीरपिपासितान् ॥२॥
सर्वस्य तुष्टिकामेन, शान्तिकामेन तथैव च।
प्रकल्पोऽयं सदारम्यः कृतो वेल्सेन सूरिणा ॥३॥
सैङ्गरेण लेरिणा तद्वद् आनीतः लक्ष्यकं प्रति।
नमस्ताभ्याम् उभाभ्यां च सर्वलेखकेभ्यस्तथा ॥४॥
येषां नित्यप्रयासेभ्यः, वर्धते ज्ञानकोशकः।
व्ययतोऽपि वर्धमानोऽयं, भारत्याः कोश एव हि ॥५॥
हृदयपीडाहरः सततम्, अयं विकिपीडियानामकः।
स्वतन्त्रो विश्वकोशस्तु, सर्वज्ञानस्य सिन्धुवत् ॥६॥
पठन्ति वा लिखन्ति वा, जनेषु कीर्तयन्ति वा।
ज्ञानरत्नाकरं येऽप्येतं, तेषां भ्रान्तिर्न जायते ॥७॥